(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Aadiparv (Mahabharat) - आदिपर्व (महाभारत)


॥ श्रीः ॥
1.153. अध्यायः 153
Mahabharata - Adi Parva - Chapter Topics
धृतराष्ट्रादीनां कणिकेन दुर्नीत्युपदेशः॥ 1 ॥ जम्बुकोपाख्यानम्॥ 2 ॥
Mahabharata - Adi Parva - Chapter Text

वैशम्पायन उवाच। 1-153-0x(900)(6965)
श्रुत्वा पाण्डुसुतान्वीरान्बलोद्रिक्तान्महौजसः।
धृतराष्ट्रो महीपालश्चिन्तामगमदातुरः॥ 1-153-1(6966)
तत आहूय मन्त्रज्ञं राजशास्त्रार्थवित्तमम्।
कणिकं मन्त्रिणां श्रेष्ठं धृतराष्ट्रऽब्रवीद्वचः॥ 1-153-2(6967)
उत्सक्ताः पाण्डवा नित्यं तेभ्योऽसूये द्विजोत्तम।
तत्र मे निश्चिततमं सन्धिविग्रहकारणम्।
कणिक त्वं ममाचक्ष्व करिष्ये वचनं तव॥ 1-153-3(6968)
वैशम्पायन उवाच। 1-153-4x(901)
`दुर्योधनोऽथ शकुनिः कर्णदुःशासनावपि।
कणिकं ह्युपसंगृह्य मन्त्रिणं सौबलस्य च॥ 1-153-4(6969)
पप्रच्छुर्भरतश्रेष्ठ पाण्डवान्प्रति नैकधा।
प्रबुद्धाः पाण्डवा नित्यं सर्वे तेभ्यस्त्रसामहे॥ 1-153-5(6970)
अनूनं सर्वपक्षाणां यद्भवेत्क्षेमकारकम्।
भारद्वाज तदाचक्ष्व करिष्यामः कथं वयम्॥ 1-153-6(6971)
वैशम्पायन उवाच।' 1-153-7x(902)
स प्रसन्नमनास्तेन परिपृष्टो द्विजोत्तमः।
उवाच वचनं तीक्ष्णं राजशास्त्रार्थदर्शनम्॥ 1-153-7(6972)
कणिक उवाच। 1-153-8x(903)
शृणु राजन्निदं तत्र प्रोच्यमानं मयानघ।
न मेऽभ्यसूया कर्तव्या श्रुत्वैतत्कुरुसत्तम॥ 1-153-8(6973)
नित्यमुद्यतदण्डः स्यान्नित्यं विवृतपौरुषः।
अच्छिद्रश्छिद्रदर्शी स्यात्परेषां विवरानुगः॥ 1-153-9(6974)
नित्यमुद्यतदण्डाद्धि भऋशमुद्विजते जनः।
तस्मात्सर्वाणि कार्याणि दण्डेनैव विधारयेत्॥ 1-153-10(6975)
नास्य च्छिद्रं परः पश्येच्छिद्रेण परमन्वियात्।
गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः॥ 1-153-11(6976)
`नित्यं च ब्राह्मणाः पूज्या नृपेण हितमिच्छता।
सृष्टो नृपो हि विप्रामां पालने दुष्टनिग्रहे॥ 1-153-12(6977)
उभाब्यां वर्धते धर्मो धर्मवृद्ध्या जितावुभौ।
लोकश्चायं परश्चैव ततो धर्मं समाचरेत्॥ 1-153-13(6978)
कृतापराधं पुरुषं दृष्ट्वा यः क्षमते नृपः।
तेनावमानमाप्नोति पापं चेह परत्र च॥ 1-153-14(6979)
यो विभूतिमवाप्योच्चै राज्ञो विकुरुतेऽधमः।
तमानयित्वा हत्वा च दद्याद्धीनाय तद्धनम्॥ 1-153-15(6980)
नो चेद्धुरि नियुक्ता ये स्थास्यन्ति वशमात्मनः।
राजा नियुञ्ज्यात्पुरुषानाप्तान्धर्मार्थकोविदान्॥ 1-153-16(6981)
ये नियुक्तास्तथा केचिद्राष्ट्रं वा यदि वा पुरम्।
ग्रामं जनपदं वापि बाधेयुर्यदि वा न वा॥ 1-153-17(6982)
परीक्षणार्थं विसृजेदानतांश्छन्नरूपिणः।
परीक्ष्य पापकं जह्याद्धनमादाय सर्वशः॥' 1-153-18(6983)
नासम्यक्कृत्यकारी स्यादुपक्रम्य कदाचन।
कण्टको ह्यपि दुश्छिन्न आस्रावं जनयेच्चिरम्॥ 1-153-19(6984)
वधमेव प्रशंसन्ति शत्रूणामपकारिणाम्।
सुविदीर्णं सुविक्रान्तं सुयुद्धं सुपलायितम्॥ 1-153-20(6985)
आपद्यापदि काले कुर्वीत न विचारयेत्।
नावज्ञेयो रिपुस्तात दुर्बलोऽपि कथं चन॥ 1-153-21(6986)
अल्पोऽप्यग्निर्वनं कृत्स्नं दहत्याश्रयसंश्रयात्।
अन्धः स्यादन्धवेलायां बाधिर्यमपि चाश्रयेत्॥ 1-153-22(6987)
कुर्यात्तृणमयं चापं शयीत मृगशायिकाम्।
सान्त्वादिभिरुपायैस्तु हन्याच्छत्रुं वशे स्थितं॥ 1-153-23(6988)
दया न तस्मिन्कर्तव्या शरणागत इत्युत।
निरुद्विग्नो हि भवति न हताज्जायते भयम्॥ 1-153-24(6989)
हन्यादमित्रं दानेन तथा पूर्वापकारिणम्।
हन्यात्त्रीन्पञ्च सप्तेति परपक्षस्य सर्वशः॥ 1-153-25(6990)
मूलमेवादितश्छिन्द्यात्परपक्षस्य नित्यशः।
ततः सहायांस्तत्पक्षान्सर्वांश्च तदनन्तरम्॥ 1-153-26(6991)
छिन्नमूले ह्यधिष्ठाने सर्वे तज्जीविनो हताः।
कथं नु शाखास्तिष्ठेरंश्छिन्नमूले वनस्पतौ॥ 1-153-27(6992)
एकाग्रः स्यादविवृतो नित्यं विवरदर्शकः।
राजन्नित्यं सपत्नेषु नित्योद्विग्नः समाचरेत्॥ 1-153-28(6993)
अग्न्याधानेन यज्ञेन काषायेण जटाजिनैः।
लोकान्विश्वासयित्वैव ततो लुम्पेद्यथा वृकः॥ 1-153-29(6994)
अङ्कुशं शोचमित्याहुरर्थानामुपधारणे।
आनाम्य फलितां शाखां पक्वं पक्वं प्रशातयेत्॥ 1-153-30(6995)
फलार्थोऽयं समारम्भो लोके पुंसां विपश्चिताम्।
वहेदमित्रं स्कन्धेन यावत्कालस्य पर्ययः॥ 1-153-31(6996)
ततः प्रत्यागते काले भिन्द्याद्धृटमिवाश्मनि।
अमित्रो न विमोक्तव्यः कृपणं बह्वपि ब्रुवन्॥ 1-153-32(6997)
कृपा न तस्मिन्कर्तव्या हन्यादेवापकारिणम्।
हन्यादमित्रं सान्त्वेन तथा दानेन वा पुनः॥ 1-153-33(6998)
तथैव भेददण्डाभ्यां सर्वोपायैः प्रशातयेत्। 1-153-34(6999)
धृतराष्ट्र उवाच।
कथं सान्त्वेन दानेन भेदैर्दण्डेन वा पुनः॥ 1-153-34x(904)
अमित्रः शक्यते हन्तुं तन्मे ब्रूहि यथातथम्। 1-153-35(7000)
कणिक उवाच।
शृणु राजन्यथा वृत्तं वने निवसतः पुरा॥ 1-153-35x(905)
जम्बुकस्य महाराज नीतिशास्त्रार्थदर्शिनः।
अथ कश्चित्कृतप्रज्ञः शृगालः स्वार्थपण्डितः॥ 1-153-36(7001)
सखिभिर्न्यवसत्सार्धं व्याघ्राखुवृकबभ्रुभिः।
तेऽपश्यन्विपिने तस्मिन्बलिनं मृगयूथपम्॥ 1-153-37(7002)
अशक्ता ग्रहणे तस्य ततो मन्त्रममन्त्रयन्। 1-153-38(7003)
जम्बुक उवाच।
असकृद्यतितो ह्येष हन्तुं व्याघ्र वने त्वया॥ 1-153-38x(906)
युवा वै जवसंपन्नो बुद्धिशाली न शक्यते।
मूषिकोऽस्य शयानस्य चरणौ भक्षयत्वयम्॥ 1-153-39(7004)
अथैनं भक्षितैः पादैर्व्याघ्रो गृह्णातु वै ततः।
ततो वै भक्षयिष्यामः सर्वे मुदितमानसाः॥ 1-153-40(7005)
जम्बुकस्य तु तद्वाक्यं तथा चक्रः समाहिताः।
मूषिकाभक्षितैः पादैर्मृगं व्याघ्रोऽवधीत्तदा॥ 1-153-41(7006)
दृष्ट्वैवाचेष्टमानं तु भूमौ मृगकलेवरम्।
स्नात्वाऽऽगच्छत भद्रं वोरक्षामीत्याह जम्बुकः॥ 1-153-42(7007)
शृगालवचनात्तेऽपि गताः सर्वे नदीं ततः।
स चिन्तापरमो भूत्वा तस्थौ तत्रैव जम्बुकः॥ 1-153-43(7008)
अथाजगाम पूर्वं तु स्नात्वा व्याघ्रो महाबलः।
ददर्श जम्बुकं चैव चिन्ताकुलितमानसम्॥ 1-153-44(7009)
व्याघ्र उवाच। 1-153-45x(907)
किं शोचसि महाप्राज्ञ त्वं नो बुद्धिमतां वरः।
अशित्वा पिशितान्यद्य विहरिष्यामहे वयम्॥ 1-153-45(7010)
जम्बुक उवाच। 1-153-46x(908)
शृणु मे त्वं महाबाहो यद्वाक्यं मूषिकोऽब्रवीत्।
धिग्बलं मृगराजस्य मयाद्यायं मृगो हतः॥ 1-153-46(7011)
मद्बाहुबलमाश्रित्य तृप्तिमद्य गमिष्यति।
तस्यैवं गर्जितं श्रुत्वा ततो भक्ष्यं न रोचये॥ 1-153-47(7012)
व्याघ्र उवाच। 1-153-48x(909)
ब्रवीति यदि स ह्येवं काले ह्यस्मि प्रबोधितः।
स्वबाहुबलमाश्रित्य हनिष्येऽहं वनेचरान्॥ 1-153-48(7013)
खादिष्ये तत्र मांसानि इत्युक्त्वा प्रस्थितोवनम्।
एतस्मिन्नेव काले तु मूषिकोऽप्याजगाम ह॥ 1-153-49(7014)
तमागतमभिप्रेक्ष्य शृगालोऽप्यब्रवीद्वचः।
शृणु मीषिक भद्रं ते नकुलो यदिहाब्रवीत्॥ 1-153-50(7015)
मृगमांसं न खादेयं गरमेतन्न रोचते।
मूषिकं भक्षयिष्यामि तद्भवाननुमन्यताम्॥ 1-153-51(7016)
तच्छ्रुत्वा मूषिको वाक्यं संत्रस्तः प्रगतो बिलम्।
ततः स्नात्वा स वै तत्र आजगाम वृको नपृ॥ 1-153-52(7017)
तमागतमिदं वाक्यमब्रवीज्जम्बुकस्तदा।
मृगराजो हि संक्रुद्धो न ते साधु भविष्यति॥ 1-153-53(7018)
सकलत्रस्त्विहायाति कुरुष्व यदनन्तरम्।
एवं संचोदितस्तेन जम्बुकेन तदा वृकः॥ 1-153-54(7019)
ततोऽवलुम्पनं कृत्वा प्रयातः पिशिताशनः।
एतस्मिन्नेव काले तु नकुलोऽप्याजगाम ह॥ 1-153-55(7020)
तमुवाच महाराज नकुलं जम्बुको वने।
स्वबाहुबलमाश्रित्य निर्जितास्तेऽन्यतो गताः॥ 1-153-56(7021)
मम दत्वा नियुद्धं त्वं भुङ्क्ष्व मांसं यथेप्सितम्। 1-153-57(7022)
नकुल उवाच।
मृगराजो वृकश्चैव बुद्धिमानपि मूषिकः॥ 1-153-57x(910)
निर्जिता यत्त्वया वीरास्तस्माद्वीरतरो भवान्।
न त्वयाप्युत्सहे योद्धुमित्युक्त्वा सोऽप्युपागमत्॥ 1-153-58(7023)
कणिक उवाच। 1-153-59x(911)
एवं तेषु प्रयातेषु जम्बुको हृष्टमानसः।
खादति स्म तदा मांसमेकः सन्मन्त्रनिश्चयात्।
एवं समाचरन्नित्यं सुखमेधेत भूपतिः॥ 1-153-59(7024)
भयेन भेदयेद्भीरुं शूरमञ्जलिकर्मणा।
लुब्धमर्थप्रदानेन समं न्यूनं तथौजसा॥ 1-153-60(7025)
एवं ते कथितं राजन् शृणु चाप्यपरं तथा॥ 1-153-61(7026)
पुत्रः सखा वा भ्राता वा पिता वा यदि वा गुरुः।
रिपुस्यानेषु वर्तन्तो हन्तव्या भूतिमिच्छता॥ 1-153-62(7027)
शपथेनाप्यरिं हन्यादर्थदानेन वा पुनः।
विषेण मायया वापि नोपेक्षेते कथंचन।
उभौ चेत्संशयोपेतौ श्रद्धवांस्तत्र वर्धते॥ 1-153-63(7028)
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः।
उत्पथं प्रतिपन्नस्य न्याय्यं भवति शासनम्॥ 1-153-64(7029)
क्रुद्धोऽप्यक्रुद्धरूपः स्यात्स्मितपूर्वाभिभाषिता।
`न चैनं क्रोधसंदीप्तं विद्यात्कश्चित्कथंचन।'
न चाप्यन्यमपध्वंसेत्कदाचित्कोपसंयुतः॥ 1-153-65(7030)
प्रहरिष्यन्प्रियं ब्रूयात्प्रहरन्नपि भारत।
प्रहृत्य च प्रियं ब्रूयाच्छोचन्निव रुदन्निव॥ 1-153-66(7031)
आश्वासयेच्चापि परं सान्त्वधर्मार्थवृत्तिभिः।
अथ तं प्रहरेत्काले तथा विचलितं पथि॥ 1-153-67(7032)
अपि घोरापराधस्य धर्ममाश्रित्य तिष्ठतः।
स हि प्रच्छाद्यते दोषः शैलो मेघैरिवासितैः॥ 1-153-68(7033)
यः स्यादनुप्राप्तवधस्तस्यागारं प्रदीपयेत्।
अधनान्नास्तिकांश्चोरान्विषकर्मसु योजयेत्॥ 1-153-69(7034)
प्रत्युत्थानासनाद्येन संप्रदानेन केनचित्।
अतिविश्रब्धघाती स्यात्तीक्ष्णंदष्ट्रो निमग्नकः॥ 1-153-70(7035)
अशङ्कितेभ्यः शङ्केत शङ्कितेभ्यश्च सर्वशः।
अशङ्क्याद्भयमुत्पन्नमपि मूलं निकृन्तति॥ 1-153-71(7036)
न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत्।
विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति॥ 1-153-72(7037)
चारः सुविहितः कार्य आत्मनश्च परस्य वा।
पाषण्डांस्तापसादींश्च परराष्ट्रेषु योजयेत्॥ 1-153-73(7038)
उद्यानेषु विहारेषु देवतायतनेषु च।
पानागारेषु रथ्यासु सर्वतीर्थेषु चाप्यथ॥ 1-153-74(7039)
चत्वरेषु च कूपेषु पर्वतेषु वनेषु च।
समवायेषु सर्वेषु सरित्सु च विचारयेत्॥ 1-153-75(7040)
वाचा भृशं विनीतः स्याद्धृदयेन तथा क्षुरः।
स्मितपूर्वाभिभाषी स्यात्सृष्टो रौद्रस्य कर्मणः॥ 1-153-76(7041)
अञ्जलिः शपथः सान्त्वं शिरसा पादवन्दनम्।
आशाकरणमित्येवं कर्तव्यं भूतिमिच्छता॥ 1-153-77(7042)
सुपुष्पितः स्यादफलः फलवान्स्याद्दुरारुहः।
आमः स्यात्पक्वसङ्काशो नच जीर्येत कर्हिचित्॥ 1-153-78(7043)
त्रिवर्गे त्रिविधा पीडा ह्यनुबन्धास्तथैव च।
अनुबन्धाः शुभा ज्ञेयाः पीडास्तु परिवर्जयेत्॥ 1-153-79(7044)
धर्मं विचरतः पीडा सापि द्वाभ्यां नियच्छति।
अर्थं चाप्यर्थलुब्धस्य कामं चातिप्रवर्तिनः॥ 1-153-80(7045)
अगर्वितात्मा युक्तश्च सान्त्वयुक्तोऽनसूयिता।
अवेक्षितार्थः शुद्धात्मा मन्त्रयीत द्विजैः सहा॥ 1-153-81(7046)
कर्मणा येन केनैव मृदुना दारुणेन च।
उद्धरेद्दीनमात्मानं समर्थो धर्ममाचरेत्॥ 1-153-82(7047)
न संशयमनारुह्य नरो भद्राणि पश्यति।
संशयं पुनरारुह्य यदि जीवति पश्यति॥ 1-153-83(7048)
यस्य बुद्धिः परिभवेत्तमतीतेन सान्त्वयेत्।
अनागतेन दुर्बुद्धिं प्रत्युत्पन्नेन पण्डितम्॥ 1-153-84(7049)
योऽरिणा सह सन्धाय शयीत कृतकृत्यवत्।
स वृक्षाग्रे यथा सुप्तः पतितः प्रतिबुध्यते॥ 1-153-85(7050)
मन्त्रसंवरणे यत्नः सदा कार्योऽनसूयता।
आकारमभिरक्षेत चारेणाप्यनुपालितः॥ 1-153-86(7051)
`न रात्रौ मन्त्रयेद्विद्वान्न च कैश्चिदुपासितः।
प्रासादाग्रे शिलाग्रे वा विशाले विजनेपि वा॥ 1-153-87(7052)
समन्तात्तत्र पश्यद्भिः सहाप्तैरेव मन्त्रयेत्।
नैव संवेशयेत्तत्र मन्त्रवेश्मनि शारिकाम्॥ 1-153-88(7053)
शुकान्वा शारिका वापि बालमूर्खजडानपि।
प्रविष्टानपि निर्वास्य मन्त्रयेद्धार्मिकैर्द्विजैः॥ 1-153-89(7054)
नीतिज्ञैर्न्यायशास्त्रज्ञैरितिहासे सुनिष्ठितैः।
रक्षां मन्त्रस्य निश्छिद्रां मन्त्रान्ते निश्चयेत्स्वयम्॥ 1-153-90(7055)
वीरोपवर्णितात्तस्माद्धर्मार्थाभ्यामथात्मना।
एकेन वाथ विप्रेण ज्ञातबुद्धिर्विनिश्चयेत्॥ 1-153-91(7056)
तृतीयेन न चान्येन व्रजेन्निश्चयमात्मवान्।
षट्कर्णश्छिद्यते मन्त्र इति नीतिषु पठ्यते॥ 1-153-92(7057)
निःसृतो नाशयेन्मन्त्रो हस्तप्राप्तामपि श्रियम्।
स्वमतं च परेषां च विचार्य च पुनःपुनः।
गुणवद्वाक्यमादद्यान्नैव तृप्येद्विचक्षणः॥' 1-153-93(7058)
नाच्छित्वा परमर्माणि नाकृत्वा कर्म दारुणम्।
नाहत्वा मत्स्यघातीव प्राप्नोति महतीं श्रियम्॥ 1-153-94(7059)
कर्शितं व्याधितं क्लिन्नमपानीयमघासकम्।
परिविश्वस्तमन्दं च प्रहर्तव्यमरेर्बलम्॥ 1-153-95(7060)
नार्थिकोऽर्थिनमभ्येति कृतार्थे नास्ति सङ्गतम्।
तस्मात्सर्वाणि साध्यानि सावशेषाणि कारयेत्॥ 1-153-96(7061)
संग्रहे विग्रहे चैव यत्नः कार्योऽनसूयता।
उत्साहश्चापि यत्नेन कर्तव्यो भूतिमिच्छता॥ 1-153-97(7062)
नास्य कृत्यानि बुध्येरन्मित्राणि रिपवस्तथा।
आरब्धान्येव पश्येरन्सुपर्यवसितान्यपि॥ 1-153-98(7063)
भीतवत्संविधातव्यं यावद्भयमनागतम्।
आगतं तु भयं दृष्ट्वा प्रहर्तव्यमभीतवत्॥ 1-153-99(7064)
दैवेनोपहतं शत्रुमनुगृह्णाति यो नरः।
स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा॥ 1-153-100(7065)
अनागतं हि बुध्येत यच्च कार्यं पुरः स्थितम्।
न तु बुद्धिक्षयात्किंचिदतिक्रामेत्प्रयोजनम्॥ 1-153-101(7066)
उत्साहश्चापि यत्नेन कर्तव्यो भूतिमिच्छता।
विभज्य देशकालौ च दैवं धर्मादयस्त्रयः।
नैःश्रेयसौ तु तौ ज्ञेयौ देशकालाविति स्थितिः॥ 1-153-102(7067)
तालवत्कुरुते मूलं बालः शत्रुरुपेक्षितः।
गहनेऽग्निरिवोत्सृष्टः क्षिप्रं संजायते महान्॥ 1-153-103(7068)
अग्निस्तोकमिवात्मानं सन्धुक्षयति यो नरः।
स वर्धमानो ग्रसते महान्तमपि संचयम्॥ 1-153-104(7069)
`आदावेव ददानीति प्रियं ब्रूयान्निरर्थकम्॥' 1-153-105(7070)
आशां कालवतीं कुर्यात्कालं विघ्नेन योजयेत्।
विघ्नं निमित्ततो ब्रूयान्निमित्तं वाऽपि हेतुतः॥ 1-153-106(7071)
क्षुरो भूत्वा हरेत्प्राणान्निशितः कालसाधनः।
प्रतिच्छन्नो लोमहारी द्विषतां परिकर्तनः॥ 1-153-107(7072)
पाण्डवेषु यथान्यायमन्येषु च कुरूद्वह।
वर्तमानो न मज्जेस्त्वं तथा कृत्यं समाचर॥ 1-153-108(7073)
सर्वकल्याणसंपन्नो विशिष्ट इति निश्चयः।
तस्मात्त्वं पाण्डुपुत्रेभ्यो रक्षात्मानं नराधिप॥ 1-153-109(7074)
भ्रातृव्या बलवन्तस्ते पाण्डुपुत्रा नराधिप।
पश्चात्तापो यथा न स्यात्तथा नीतिर्विधीयताम्॥ 1-153-110(7075)
वैशम्पायन उवाच। 1-153-111x(912)
एवमुक्त्वा संप्रतस्थे कणिकः स्वगृहं ततः।
धृतराष्ट्रोऽपि कौरव्यः शोकार्तः समपद्यत॥ ॥ 1-153-111(7076)

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि त्रिपञ्चाशदधिकशततमोऽध्यायः॥ 153 ॥ ॥ समाप्तं च संभवपर्व ॥

Mahabharata - Adi Parva - Chapter Footnotes
1-153-13 उभाभ्यां ब्राह्मणरक्षणदुष्टनिग्रहाभ्याम्। जितौ संपादितौ भवेतामिति शेषः॥ 1-153-15 हीनाय दरिद्राय॥ 1-153-20 उपसंहरति वधमिति। कथं वधः कर्तव्यं इत्याह सुविदीर्णमिति। सुविक्रान्तमपि शत्रुं। काले आपद्यापन्नमालभ्य सुविदीर्णं विनष्टं कुर्वीत। तथा सुयुद्धमपि शत्रुमापदि काले सुपलायितं कुर्वीति॥ 1-153-22 आश्रयसंश्रयात् आश्रयबलात्॥ 1-153-23 तृणमयं तृणवन्निष्प्रयोजनम्। क्षात्रं धर्मं त्यक्त्वा शत्रुगृहे भिक्षाभुगपि स्यादित्यर्थः। मृगशायिकां मृगहन्तुः शय्याम्। यथा व्याधो मृगान्विश्वासयितुं मृषा निद्राति विश्वस्तेषु च तेषु प्रहरत्येवं स हन्तुमेवाकारं गोपयतीत्यर्थः। उपायैः वशे स्थितं शत्रुमिति संबन्धः॥ 1-153-25 त्रीन् ऐश्वर्यमन्त्रोत्साहान्। तथा पञ्च अमात्यराष्ट्रदुर्गाणि कोशो दण्डश्च पञ्चम इत्युक्तान्। दण्डोत्र सैन्यं। सप्त स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्बलानि येत्युक्तानि॥ 1-153-30 शौचमग्न्याधानादि। अत्र दृष्टान्तः आनाम्येति आनामयित्वा॥ 1-153-37 बभ्रुर्नकुलः। मृगयूथपं महान्तं हरिणम्॥ 1-153-41 मूषिकेण आईषद्भक्षितैः॥ 1-153-46 मृगराजस्य व्याघ्रस्य॥ 1-153-51 गरं मूषिकदष्टत्वाद्विषभूतम्॥ 1-153-55 अवलुम्पनं गात्रसंकोचनम्॥ 1-153-63 संशयोपेतौ संशयविषयौ। श्रद्धावान् मदुक्तादरवान्। श्रद्दधानस्तु बध्यत इति ङ पाठः॥ 1-153-65 अपध्वंसेत् कुत्सयेत्॥ 1-153-69 अनुप्राप्तबधः शीघ्रं हन्तुमिष्टः अधना दरिद्राः नास्तिकाः परलोकश्रद्धारहिताः॥ 1-153-70 निमग्नकः नम्रशिराः तीक्ष्णदंष्ट्रः व्याघ्र इव। तीक्ष्णदंष्ट्र इवोरत इति क.ङ.पाठः॥ 1-153-73 सुविहितः सम्यक् परीक्षितः॥ 1-153-76 सृष्टो रौद्राय कर्मण इति क.घ.पाठः॥ 1-153-79 अनुबन्धः फलम्॥ 1-153-80 धर्ममत्यन्तं विचरतः पुंसो द्वाभ्यामर्थकामाभ्यां धनव्ययब्रह्मचर्योपक्षिप्ताभ्यां पीडा चित्तवैकल्यं भवति। सापि पुंसः पीडा धर्मं नियच्छति निगृह्णाति। एवमर्थं चाप्यर्थलुब्धस्य कामं चातिप्रवर्तिन इति व्याख्येयं॥ 1-153-83 उद्देश्यसन्देहेपि नीतिरवश्यमनुसरणीयेत्याह। न संशयमिति। असंशयमथारुह्येति क.घ.ट.पाठः॥ 1-153-84 परिभवेत् शोकेन। तमतीतेन नलरामाद्याख्यानेन। दुर्बुद्धिं। लोभाद्युपहतबुद्धिम्। अनागतेन कालान्तरे तव श्रेयो भविष्यतीत्याशाप्रदर्शनेन। पण्डितं प्रत्युत्पन्नेन वर्तमानेन धनादिना सान्त्वयेत्॥ 1-153-86 मन्त्रसंवरणं मन्त्रगूहनम्॥ 1-153-95 अघासकं अनाहारम्॥ 1-153-96 संगतं सख्यम्॥ 1-153-98 आरब्धान्यपि सुपर्यवसितानि संपन्नान्येव पश्येरन्॥ 1-153-99 संविधातव्यं प्रतिकर्तव्यम्॥ 1-153-102 देशाद्यनुगुण उत्साहोऽपि कर्तव्यो नत्वलसो भवेत्। दैवं प्राक्तनं कर्म। ये धर्मादयस्त्रयस्तांश्च विभज्य तेषां मध्ये नैःश्रेयसौ श्रेयोहेतू इति स्थितिर्निश्चयः॥ 1-153-103 बालः अल्पोपि। बलवत्कुरुते रूपं बाल्यादिति क.ङ.ट.पाठः॥ 1-153-104 आत्मानं सधुक्षयति सहायादिना वर्धयति। संचयमिन्धनानां पक्षे शत्रूणाम्॥ 1-153-106 हेतुतः हेत्वन्तरेण॥ 1-153-111 तदा सपुत्रो राजा च शोकार्त इति ङ पुस्तकपाठः॥ त्रिपञ्चाशदधिकशततमोऽध्यायः॥ 153 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.